|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.61. अध्यायः 061
Mahabharata - Shanti Parva - Chapter Topics
युधिष्ठिरंप्रति भीष्मेण ब्राह्मणधर्मकथनम्॥ 1॥
Mahabharata - Shanti Parva - Chapter Text
युधिष्ठिर उवाच। 12-61-0x(6685)(80775)
पुनः शिवान्महोदर्कानहिंस्रांल्लोकसंमतान्।
ब्रूहि धर्मान्सुखोपायान्मद्विधानां सुखावहान्॥ 12-61-1(80776)
भीष्म उवाच। 12-61-2x(6686)
ब्राह्मणस्य तु चत्वारस्त्वाश्रमा विहिताः प्रभो।
वर्णास्तान्नानुवर्तन्ते त्रयो भारतसत्तम॥ 12-61-2(80777)
उक्तानि कर्माणि बहूनि राज
न्स्वर्ग्याणि राजन्यपरायणानि।
शास्त्रस्य सर्वस्य विधौ स्मृतानि
क्षात्रे हि सर्वं विहितं यथावत्॥ 12-61-3(80778)
क्षात्राणि वैश्यानि च सेवमानः
शौद्राणि कर्माणि च ब्राह्मणः सत्।
अस्मिँल्लोके निन्दितो मन्दचेताः।
परे च लोके निरयं प्रयाति॥ 12-61-4(80779)
या संज्ञा विहिता लोके दासे शुनि वृके पशौ।
विकर्मणि स्थिते विप्रे तां संज्ञां कुरु पाण्डव॥ 12-61-5(80780)
षट्कर्मसंप्रवृत्तस्य आश्रमेषु चतुर्ष्वपि।
सर्वधर्मोपपन्नस्य तद्भूतस्य कृतात्मनः॥ 12-61-6(80781)
ब्राह्मणस्य विशुद्धस्य तपस्यभिरतस्य च।
निराशिषो वदान्यस्य लोका ह्यक्षरसंज्ञिताः॥ 12-61-7(80782)
यो यस्मिन्कुरुते कर्म यादृशं येन यत्र च।
तादृशं तादृशेनैव सगुणं प्रतिपद्यते॥ 12-61-8(80783)
वृद्ध्या कृषिवणिक्त्वेन जीवसंजीवनेन च।
वेत्तुमर्हसि राजेन्द्र स्वाध्यात्मगुणितेन च॥ 12-61-9(80784)
कालसंचोदितः काले कालपर्यायनिश्चितः।
उत्तमाधममध्यानि कर्माणि कुरुतेऽवशः॥ 12-61-10(80785)
अन्तवन्ति प्रदानानि परं श्रेयस्कराणि च।
स्वकर्मविहितो लोको ह्यक्षरः सर्वतोमुखः॥ ॥ 12-61-11(80786)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकषष्टितमोऽध्यायः॥ 61॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-61-6 षट्कर्माणि प्राणायामः प्रत्याहारो ध्यानं धारणा तर्क समाधिरिति। इज्यादीनामाश्रमान्तरेष्वयोगात्। सर्वधर्मोऽहिंसा॥ 12-61-7 तपसि विचारे। अक्षरसंज्ञिताः अक्षयाः॥ 12-61-8 यः पुमान्यस्मिन्नवस्थाविशेषे यत्र देशे काले वा येन फलेन निमित्तेन यत्कर्म करोति साध्वसाधु वा तत्सकलं लोभाच्चिराभ्यासाच्च सगुणमेवेति प्रतिपद्यते नत्विदं निन्द्यमिति ततो विरज्यत इत्यर्थः॥ 12-61-9 जीवै संजीवनं मृगयाजीवित्वं तेन। वृभ्द्यादिभिः समानमिति हेत्तुमर्हसि उक्तहेतोरित्यर्थः॥ 12-61-10 कालेन पर्येत्याविर्भवतीति कालपर्यायः प्राग्भवीयो वासनासमूहस्तेन निश्चितः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|